यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते । शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते
yád dharíṇo yavám átti ná púṣṭaṃ bahú mányate | śūdró yád ā́ryāyai jāró ná póṣam ánu mányate ||
Wenn der Hirsch Gerste frisst, hält er das Gedeihen nicht für großen Reichtum; ebenso richtet der Śūdra, wenn er der Buhle einer Ārya-Frau ist, seinen Sinn nicht nach dem Gedeihen aus.
यत् । हरिणः । यवम् । अत्ति । न । पुष्टम् । बहु । मन्यते । शूद्रः । यत् । आर्यायै । जारः । न । पोषम् । अनु । मन्यते