शै॒शि॒रेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्रि॒ᳪशेऽमृता॑ स्तु॒ताः । स॒त्येन॑ रे॒वती॑: क्ष॒त्रᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः
śaiśiréṇa ṛtúnā devā́s trayastriṃśé'mṛtā́ḥ stutā́ḥ | satyéna revátīḥ kṣatrám havír índre váyo dadhúḥ
Mit der tauigen Jahreszeit (śaiśira) als ihrer ṛtu wurden die Götter, die Unsterblichen, im dreiunddreißigfachen Stoma gepriesen; mit Wahrheit, mit den Revatīs, mit Herrschaft, legten sie in Indra die Opfergabe — Lebenskraft (vayas).
शै॒शि॒रेण॑ । ऋ॒तुना॑ । दे॒वाः । त्र॑यः-त्रि॒ᳪशे । अ॒मृता॑ः । स्तु॒ताः । स॒त्येन॑ । रे॒वतीः॑ । क्ष॒त्रम् । ह॒विः । इन्द्रे॑ । वयः॑ । दधुः