नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च
námaḥ kūpyā̀ya cāvaṭyā̀ya ca námo vīdhryā̀ya cātapyā̀ya ca námo meghyā̀ya ca vidyutyā̀ya ca námo varṣyā̀ya cāvarṣyā̀ya ca
Verehrung dem Herrn des Brunnens und dem Herrn der Grube; Verehrung dem Herrn des Spalt-Abflusses und dem Herrn der Hitze; Verehrung dem Herrn der Wolke und dem Herrn des Blitzes; Verehrung dem Herrn des Regens und dem Herrn der Regenlosigkeit.
नमः । कूप्याय । च । अवट्याय । च । नमः । वीध्र्याय । च । आतप्याय । च । नमः । मेघ्याय । च । विद्युत्याय । च । नमः । वर्ष्याय । च । अवर्ष्याय । च