नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्यो ऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪह॒तीभ्य॑श्च वो॒ नम॑:
námaḥ sabhā́bhyaḥ sabhā́patibhyaś ca vo námo námo’śvébhyo ’śvápatibhyaś ca vo námo náma āvyā́dhinībhyo vivídhyantībhyaś ca vo námo náma ugáṇābhyas tṛ́ṃhatībhyaś ca vo námaḥ
Ehrerbietung den Versammlungen; und Ehrerbietung den Herren der Versammlungen — euch Ehrerbietung, Ehrerbietung. Ehrerbietung den Pferden; und Ehrerbietung den Herren der Pferde — euch Ehrerbietung, Ehrerbietung. Ehrerbietung den Durchbohrenden; und denen, die auf mancherlei Weise schlagen — euch Ehrerbietung, Ehrerbietung. Ehrerbietung den furchtbaren Scharen; und den Überwältigenden — euch Ehrerbietung.
नमः । सभाभ्यः । सभापतिभ्यः । च । वः । नमः । नमः । अश्वेभ्यः । अश्वपतिभ्यः । च । वः । नमः । नमः । आव्याधिनीभ्यः । विविध्यन्तीभ्यः । च । वः । नमः । नमः । उगणाभ्यः । तृंहतीभ्यः । च । वः । नमः ।