उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪ सृ॑जेथाम॒यं च॑ । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न् विस्वे॑ देवा॒ यज॑मानाश्च सीदत
udbúdhya svāgne práti jāgṛhi tvám iṣṭāpūrté sáṃ sṛjethām ayáṃ ca | asmínt sadhásthe ádhy ùttarasmín víśve devā́ yajámānāś ca sīdata
Erwache, o Agni; und wache du als Erwiderung. Mögen Iṣṭāpūrta und dieser (Opferherr) sich verbinden. Auf diesem gemeinsamen Sitz, auf dieser höheren Stätte sollen alle Götter und die Opfernden sich niedersetzen.
उत्-बु॒ध्य॒स्व । अ॒ग्ने॒ । प्रति॑ । जा॒गृ॒हि॒ । त्वम् । इ॒ष्टा॒पू॒र्ते इति॑ । सम् । सृ॒जे॒था॒म् । अ॒यम् । च॒ । अ॒स्मिन् । स॒ध-स्थे॑ । अधि॑ । उत्त॑र-स्मिन् । विश्वे॑ । दे॒वाः । यज॑मानाः । च॒ । सी॒द॒त॒