Sukta 1.141
अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् । रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥
अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् । र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतु॑: ॥
asmé rayíṃ ná svárthaṃ damū́nasaṃ bhágam dákṣaṃ ná papṛcāsi dharṇasím | raśmī́m̐r iva yó yámati jánmanī ubhé devā́nāṃ śáṃsam ṛtá ā́ ca su-krátuḥ ||
In uns mischst du rayí — wahren Gewinn und Haus-Stütze — wie Bhaga; du fügst Dakṣa, die gestaltende Kraft, als tragenden Grund hinzu. Wie Zügel, die die zwei Geburten in der Gewalt halten, führst du, du von gutem Entschluss, auch der Götter Lobpreis und Ṛta (Wahrheit/Ordnung) zusammen.
अ॒स्मे इति॑ । र॒यिम् । न । सु॒ऽअर्थ॑म् । दमू॑नसम् । भग॑न् । दक्ष॑म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् । र॒श्मीन्ऽइ॑व । यः । यम॑ति । जन्म॑नी॒ इति॑ । उ॒भे इति॑ । दे॒वाना॑म् । शंस॑म् । ऋ॒ते । आ । च॒ । सु॒ऽक्रतुः॑ ॥अस्मे इति । रयिम् । न । सुअर्थम् । दमूनसम् । भगन् । दक्षम् । न । पपृचासि । धर्णसिम् । रश्मीन्इव । यः । यमति । जन्मनी इति । उभे इति । देवानाम् । शंसम् । ऋते । आ । च । सुक्रतुः ॥asme iti | rayim | na | su-artham | damūnasam | bhagan | dakṣam | na | papṛcāsi | dhaṇarsim | raśmīn-iva | yaḥ | yamati | janmanī iti | ubhe iti | devānām | śaṃsam | ṛte | ā | ca | su-kratuḥ