Sukta 1.130
इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः । शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् । अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥
इ॒मां ते॒ वाचं॑ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीर॒: स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः । शु॒म्भन्तो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिन॑म् । अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥
imā́ṃ te vā́caṃ vasūyánta ā́yavo ráthaṃ na dhī́raḥ svápā atakṣiṣuḥ sumnā́ya tvā́m atakṣiṣuḥ | śumbhánto jényam yáthā vā́jeṣu vipra vājínam | átyam-iva śávase sātáye dhánā víśvā dhánāni sātáye ||
Diese Rede haben wir dir bereitet, o Indra, nach Gut und Reichtum verlangend; die Weisen, kundig, haben sie wie einen Wagen gezimmert — dich haben sie zu deiner Freude gezimmert. Den sieghaften Glanz schmückend, wie man im Wettlauf den Preisgewinner schmückt, o Seher (vipra), stellen wir dich voran wie ein Ross: zur Kraft, zum Gewinn — zu allen Schätzen, zu jeglichen Schätzen, zum Gewinn.
इ॒माम् । ते॒ । वाच॑म् । व॒सु॒ऽयन्तः॑ । आ॒यवः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्षि॒षुः॒ । सु॒म्नाय॑ । त्वाम् । अ॒त॒क्षि॒षुः॒ । शु॒म्भन्तः॑ । जेन्य॑म् । यथा॑ । वाजे॑षु । वि॒प्र॒ । वा॒जिन॑म् । अत्य॑म्ऽइव । शव॑से । सा॒तये॑ । धना॑ । विश्वा॑ । धना॑नि । सा॒तये॑ ॥इमाम् । ते । वाचम् । वसुयन्तः । आयवः । रथम् । न । धीरः । सुअपाः । अतक्षिषुः । सुम्नाय । त्वाम् । अतक्षिषुः । शुम्भन्तः । जेन्यम् । यथा । वाजेषु । विप्र । वाजिनम् । अत्यम्इव । शवसे । सातये । धना । विश्वा । धनानि । सातये ॥imām | te | vācam | vasu-yantaḥ | āyavaḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣ iṣuḥ | sumnāya | tvām | atakṣiṣuḥ | śumbhantaḥ | jenyam | yathā | vājeṣu | vipra | vājinam | atyam-iva | śavase | sātaye | dhanā | viśvā | dhanāni | sātaye