Sukta 1.130
त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव । इत ऊतीरयुञ्जत समानमर्थमक्षितम् । धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥
त्वं वृथा॑ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव । इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् । धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥
tváṃ vṛ́thā nadyà indra sártave ácchā samudrám asṛ́jo rathā́m̐-iva vājayató rathā́m̐-iva | itá ūtī́r ayuñjata samānám ártham ákṣitam | dhenū́r-iva mánave viśvá-dohaso jánāya viśvá-dohasaḥ ||
Nicht vergebens, o Indra, ließest du die Flüsse frei, ihren Lauf zum Ozean zu nehmen – wie Wagen, zum Preis angetrieben, wie Wagen. Daraus spannten sich die hilfreichen Mächte an zu einem gemeinsamen, unerschöpflichen Ziel. Wie Milchkühe, die ringsumher Milch geben, ergießen sie ihre Fülle für den Menschen, für das Volk – allseitig spendend.
त्वम् । वृथा॑ । न॒द्यः॑ । इ॒न्द्र॒ । सर्त॑वे । अच्छ॑ । स॒मु॒द्रम् । अ॒सृ॒जः॒ । रथा॑न्ऽइव । वा॒ज॒य॒तः । रथा॑न्ऽइव । इ॒तः । ऊ॒तीः । अ॒यु॒ञ्ज॒त॒ । स॒मा॒नम् । अर्थ॑म् । अक्षि॑तम् । धे॒नूःऽइ॑व । मन॑वे । वि॒श्वऽदो॑हसः । जना॑य । वि॒श्वऽदो॑हसः ॥त्वम् । वृथा । नद्यः । इन्द्र । सर्तवे । अच्छ । समुद्रम् । असृजः । रथान्इव । वाजयतः । रथान्इव । इतः । ऊतीः । अयुञ्जत । समानम् । अर्थम् । अक्षितम् । धेनूःइव । मनवे । विश्वदोहसः । जनाय । विश्वदोहसः ॥tvam | vṛthā | nadyaḥ | indra | sartave | accha | samudram | asṛjaḥ | rathān-iva | vājayataḥ | rathān-iva | itaḥ | ūtīḥ | ayuñjata | samānam | artham | akṣitam | dhenūḥ-iva | manave | viśva-dohasaḥ | janāya | viśva-dohasaḥ