Sukta 1.127
दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे । प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा । स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥
दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से । प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ । स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥
dṛḷhā cid asmai ánu duryáthā vide téjiṣṭhābhir araṇíbhir dā́ṣṭy ávase ’gnáye dā́ṣṭy ávase | prá yáḥ purū́ṇi gā́hate tákṣad vánā iva śóciṣā | sthirā́ cid ánnā ní riṇāty ójasā ní sthirā́ṇi cid ójasā ||
Selbst festgefügte Hindernisse weichen ihm, und schwierige Wege werden erkennbar: mit den glühendsten araṇi entzündet er Agni zu unserer Hilfe, entzündet Agni zu unserer Hilfe. Er, der durch viele Hüllen hindurchdringt, spaltet mit seiner Flamme wie einer, der Holz behauen. Mit seiner Kraft zerbricht er selbst das Unbewegliche — mit seiner Kraft zerbricht er selbst das Feststehende.
दृ॒ळ्हा । चि॒त् । अ॒स्मै॒ । अनु॑ । दुः॒ । यथा॑ । वि॒दे । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । दा॒ष्टि॒ । अव॑से । अ॒ग्नये॑ । दा॒श्टि॒ । अव॑से । प्र । यः । पु॒रूणि॑ । गाह॑ते । तक्ष॑त् । वना॑ऽइव । शो॒चिषा॑ । स्थि॒रा । चि॒त् । अन्ना॑ । नि । रि॒णा॒ति॒ । ओज॑सा । नि । स्थि॒राणि॑ । चि॒त् । ओज॑सा ॥दृळ्हा । चित् । अस्मै । अनु । दुः । यथा । विदे । तेजिष्ठाभिः । अरणिभिः । दाष्टि । अवसे । अग्नये । दाश्टि । अवसे । प्र । यः । पुरूणि । गाहते । तक्षत् । वनाइव । शोचिषा । स्थिरा । चित् । अन्ना । नि । रिणाति । ओजसा । नि । स्थिराणि । चित् । ओजसा ॥dṛḷhā | cit | asmai | anu | duḥ | yathā | vide | tejiṣṭhābhiḥ | araṇi-bhiḥ | dāṣṭi | avase | agnaye | dāśṭi | avase | pra | yaḥ | purūṇi | gāhate | takṣat | vanāiva | śociṣā | sthirā | cit | annā | ni | riṇāti | ojasā | ni | sthirāṇi | cit | ojsā