Sukta 1.122
हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः । अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥
हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । अ॒र्यो गिर॑: स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥
híraṇya-karṇaṃ maṇi-grīvám árṇas tán no víśve varivasyantu devā́ḥ | aryó gíraḥ sadyá ā́ jagmuṣī́r usrā́ś cākantu ubháyeṣv asmḗ ||
Mögen alle Götter uns den Weg weiten zu jener Flut des Seins, goldohrig, mit juwelenumkränztem Nacken. Mögen die edlen Worte sogleich zu uns gelangen, und mögen die lichten Kühe der Morgenröte für uns auf beiden Seiten leuchten – in der inneren und in der äußeren Welt.
हिर॑ण्यऽकर्णम् । म॒णि॒ऽग्री॒व॒म् । अर्णः॑ । तम् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः । अ॒र्यः । गिरः॑ । स॒द्यः । आ । ज॒ग्मुषीः॑ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये॑षु । अ॒स्मे इति॑ ॥हिरण्यकर्णम् । मणिग्रीवम् । अर्णः । तम् । नः । विश्वे । वरिवस्यन्तु । देवाः । अर्यः । गिरः । सद्यः । आ । जग्मुषीः । आ । उस्राः । चाकन्तु । उभयेषु । अस्मे इति ॥hiraṇya-karṇam | maṇi-grīvam | arṇaḥ | tam | naḥ | viśve | varivasyantu | devāḥ | aryaḥ | giraḥ | sadyaḥ | ā | jagmuṣīḥ | ā | usrāḥ | cākantu | ubhayeṣu | asme iti