होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒देऽश्विनेन्द्र॒ᳪ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमै॒: कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॑र्यज
hótā yákṣat-samídhā’gním iḍás-páde’śvinéndraṃ sárasvatīm ájo dhūmrò ná godhū́maiḥ kúvalair bheṣajáṃ mádhu śáṣpair ná téja indriyáṃ páyaḥ sómaḥ parísrutā ghṛtáṃ mádhu vyàntv ā́jyasya hótar yaja
হোতা সমিধা সহ ইড়া-পদে অগ্নিকে যজন করুন; অশ্বিনৌ-ইন্দ্রকে এবং সরস্বতীকেও যজন করুন। যেমন ধূম্রবর্ণ অজ (ছাগল) ঔষধ, যেমন গোধূম (গম) ও কুবল-ফল ঔষধ, যেমন মধু ও শষ্প (কোমল অঙ্কুর) ঔষধ—তেমনি ইন্দ্রিয়-তেজ, পয়ঃ, পরি-স্রুত সোম, ঘৃত ও মধু—এই সব আজ্যের সঙ্গে (যজ্ঞে) ব্যাপ্ত হোক। হে হোতা, যজন কর।
होता । यक्षत् । समिधा । अग्निम् । इडस्-पदे । अश्वि-इन्द्रम् । सरस्वतीम् । अजः । धूम्रः । न । गोधूमैः । कुवलैः । भेषजम् । मधु । शष्पैः । न । तेजः । इन्द्रियम् । पयः । सोमः । परिस्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज