Sukta 7.15
त्वमग्ने वीरवद्यशो देवश्च सविता भगः । दितिश्च दाति वार्यम् ॥
त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भग॑: । दिति॑श्च दाति॒ वार्य॑म् ॥
tvám agne vīrávad yáśo devaś ca savitā́ bhágaḥ | dítiś ca dāti vā́ryam ||
হে অগ্নি, তুমি বীর্যসমৃদ্ধ যশ দাও; আর দেব সৱিতা, ভগ এবং দিতিও বার্য—বরণীয়, শ্রেষ্ঠ—ধন দান করেন।
त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यशः॑ । दे॒वः । च॒ । स॒वि॒ता । भगः॑ । दितिः॑ । च॒ । दा॒ति॒ । वार्य॑म् ॥त्वम् । अग्ने । वीरवत् । यशः । देवः । च । सविता । भगः । दितिः । च । दाति । वार्यम् ॥tvam | agne | vīra-vat | yaśaḥ | devaḥ | ca | savitā | bhagaḥ | ditiḥ | ca | dāti | vāyarm