Sukta 6.51
ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति । सुक्षत्रासो वरुणो मित्रो अग्निॠतधीतयो वक्मराजसत्याः ॥
ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति । सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निॠ॒तधी॑तयो वक्म॒राज॑सत्याः ॥
té hí śréṣṭha-varcasas tá u nas tiró víśvāni duritā́ náyanti | su-kṣatrā́so váruṇo mitró agnír ṛtá-dhītayo vakmarāja-satyāḥ ||
তাঁরাই শ্রেষ্ঠ তেজস্বী; তাঁরা আমাদের সকল দুঃপথ/দুরিতের পার নিয়ে যান। সু-সার্বভৌমত্বে বলীয়ান—বরুণ, মিত্র, অগ্নি—ঋত-চিন্তক, প্রেরিত বাণীর রাজাস্বরূপ, সত্যে দৃঢ়।
ते । हि । श्रेष्ठ॑ऽवर्चसः । ते । ऊँ॒ इति॑ । नः॒ । ति॒रः । विश्वा॑नि । दुः॒ऽइ॒ता । नय॑न्ति । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । ऋ॒तऽधी॑तयः । व॒क्म॒राज॑ऽसत्याः ॥ते । हि । श्रेष्ठवर्चसः । ते । ऊँ इति । नः । तिरः । विश्वानि । दुःइता । नयन्ति । सुक्षत्रासः । वरुणः । मित्रः । अग्निः । ऋतधीतयः । वक्मराजसत्याः ॥te | hi | śreṣṭha-varcasaḥ | te | oṃ iti | naḥ | tiraḥ | viśvāni | duḥ-itā | nayanti | su-kṣatrāsaḥ | varuṇaḥ | mitraḥ | agniḥ | ṛta-dhītayaḥ | vakmarāja-satyāḥ