Sukta 6.47
क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् । पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥
क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् । पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥
ká īṃ stavát káḥ pṛṇā́t kó yajāte yád ugrám ín maghávā viśváhā́vet | pā́dāv iva pra-hárann anyám-anyaṃ kṛṇóti pū́rvam áparaṃ śácībhiḥ ||
কে তাকে যথার্থ স্তব করতে পারে, কে তাকে তৃপ্ত করতে পারে, কে তাকে যজন করতে পারে—যখন তিনি সর্বভাবে উগ্র শক্তি জানেন সেই মঘবান্? যেন দুই পায়ে একের পর এক আঘাত করে, তিনি শচীভিঃ (কুশল-শক্তি) দ্বারা পূর্বকে অপর এবং অপরকে পূর্ব করে দেন।
कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घऽवा॑ । वि॒श्वहा । अवे॑त् । पादौ॑ऽइव । प्र॒ऽहर॑न् । अ॒न्यम्ऽअ॑न्यम् । कृ॒णोति॑ । पूर्व॑म् । अप॑रम् । शची॑भिः ॥कः । ईम् । स्तवत् । कः । पृणात् । कः । यजाते । यत् । उग्रम् । इत् । मघवा । विश्वहा । अवेत् । पादौइव । प्रहरन् । अन्यम्अन्यम् । कृणोति । पूर्वम् । अपरम् । शचीभिः ॥kaḥ | īm | stavat | kaḥ | pṛṇāt | kaḥ | yajāte | yat | ugram | it | magha-vā | viśvahā | avet | pādau-iva | pra-haran | anyam-anyam | kṛṇoti | pūrvam | aparam | śacībhiḥ