Sukta 10.99
अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः । सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥
अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रो॑: । सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥
asyá stómebhir auśijá ṛ́jiśvā vrajáṁ darayad vṛṣabhéṇa píproḥ | sutvā́ yád yajató dī́dayad gī́ḥ púra iyānó abhí várpasā bhūt ||
এই তার স্তোত্রসমূহ দ্বারা ঔশিজ ঋজিশ্বান বৃষভ-শক্তিতে পিপ্রুর জন্য ব্ৰজ (ঘেরা/আবরণ) ভেঙে দিল। যজ্ঞ্য (পূজ্য) যখন সোম নিংড়াল, তখন সে প্রেরিত বাণীকে দীপ্ত করল; দুর্গসমূহের অগ্রে অগ্রে গিয়ে, সে নিজের দীপ্ত রূপে উজ্জ্বল হল।
अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ । सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः । सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥asya | stomebhiḥ | auśijaḥ | ṛjiśvā | vrajam | darayat | vṛṣabheṇa | piproḥ | sutvā | yat | yajataḥ | dīdayat | gīḥ | puraḥ | iyānaḥ | abhi | varpasā | bhūt