Sukta 10.68
अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् । रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् । रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥
abhí śyā́vaṃ ná kṛ́śanebhir áśvaṃ nákṣatrebhíḥ pitáro dyā́m apiṃśan | rā́tryāṃ támo ádadhu r jyótir áhan bṛ́haspátir bhínad ádrim vídad gā́ḥ ||
পিতৃগণ নক্ষত্রসমূহ দিয়ে দ্যৌ (আকাশ) চিহ্নিত করলেন—যেন শ্যাম অশ্বের গায়ে উজ্জ্বল রেখা টানা। রাত্রিতে তাঁরা তমস স্থাপন করলেন এবং জ্যোতি প্রহার করে প্রকাশ করলেন। বৃহস্পতি অদ্রি (শিলা) বিদীর্ণ করে গাভী—অর্থাৎ জ্ঞানের রশ্মি—উদ্ঘাটন করলেন।
अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तरः॑ । द्याम् । अ॒पिं॒श॒न् । रात्र्या॑म् । तमः॑ । अद॑धुः । ज्योतिः॑ । अह॑न् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः ॥अभि । श्यावम् । न । कृशनेभिः । अश्वम् । नक्षत्रेभिः । पितरः । द्याम् । अपिंशन् । रात्र्याम् । तमः । अदधुः । ज्योतिः । अहन् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः ॥abhi | śyāvam | na | kṛśanebhiḥ | aśvam | nakṣatrebhiḥ | pitaraḥ | dyām | apiṃśan | rātryām | tamaḥ | adadhuḥ | jyotiḥ | ahan | bṛhaspatiḥ | bhinat | adrim | vidat | gāḥ