Sukta 1.186
प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति । अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥
प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ । अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥
pró aśvínāv ávase kṛṇudhvam prá pūṣáṇaṃ svátavaso hí sánti | advéṣo víṣṇur vā́ta ṛbhukṣā́ ácchā sumnā́ya vavṛtīya devā́n ||
আমাদের সহায়তার জন্য অশ্বিনৌকে অগ্রে প্রেরণ করো; স্বশক্তিসম্পন্ন পূষণকেও অগ্রে প্রেরণ করো—কারণ তাঁরা স্বতঃবলবান। অদ্বেষী বিষ্ণু, বাত (বায়ু) এবং ঋভুক্ষা আমাদের সৌভাগ্যের জন্য দেবগণকে এদিকে ফিরিয়ে আনুন।
प्रो इति॑ । अ॒श्विनौ॑ । अव॑से । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । स्वत॑वसः । हि । सन्ति॑ । अ॒द्वे॒षः । विष्णुः॑ । वातः॑ । ऋ॒भु॒क्षाः । अच्छ॑ । सु॒म्नाय॑ । व॒वृ॒ती॒य॒ । दे॒वान् ॥प्रो इति । अश्विनौ । अवसे । कृणुध्वम् । प्र । पूषणम् । स्वतवसः । हि । सन्ति । अद्वेषः । विष्णुः । वातः । ऋभुक्षाः । अच्छ । सुम्नाय । ववृतीय । देवान् ॥pro iti | aśvinau | avase | kṛṇudhvam | pra | pūṣaṇam | svatavasaḥ | hi | santi | adveṣaḥ | viṣṇuḥ | vātaḥ | ṛbhukṣāḥ | accha | sumnāya | vavṛtīya | devān