Sukta 1.163
हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥
हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥
híraṇyaśṛṅgó ’yó asya pā́dā mánōjavā ávara índra āsīt | devā́ íd asya havíradyam āyan yó arvántaṃ prathamó ’dhy átiṣṭhat ||
সে স্বর্ণশৃঙ্গধারী; তার পা লৌহময়; মনসম বেগে তার অগ্রগতি—তার অন্তরে অধঃ-আধার ইন্দ্র। দেবগণ তার ভক্ষণযোগ্য হবি গ্রহণ করতে এলেন; কারণ যে প্রথম অর্বন্ত (অশ্ব)-এ আরোহণ করে, সেই-ই যজ্ঞবল-এর প্রথম গ্রাহী ও অগ্র-নেতা হয়।
हिर॑ण्यऽशृ॒ङ्गः । अयः॑ । अ॒स्य॒ । पादाः॑ । मनः॑ऽजवाः॑ । अव॑रः । इन्द्रः॑ । आ॒सी॒त् । दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒ऽअद्य॑म् । आ॒य॒न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒धि॒ऽअति॑ष्ठत् ॥हिरण्यशृङ्गः । अयः । अस्य । पादाः । मनःजवाः । अवरः । इन्द्रः । आसीत् । देवाः । इत् । अस्य । हविःअद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधिअतिष्ठत् ॥hiraṇya-śṛṅgaḥ | ayaḥ | asya | pādāḥ | manaḥ-javāḥ | avaraḥ | indraḥ | āsīt | devāḥ | it | asya | haviḥ-adyam | āyan | yaḥ | arvantam | prathamaḥ | adhi-atiṣṭhat