Sukta 1.163
असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥
ási yamó asyā́dityó arvánn ási tritó guhyéna vraténa | ási sómena samáyā vípṛkta āhús te trī́ṇi diví bándhanāni ||
হে অর্বন্ (অশ্ব), তুমি যম—নিয়ম ও সংযম; তুমি আদিত্য—ব্যাপ্ত দীপ্ত সত্য; তুমি ত্রিত—গুহ্য ব্রত (গূঢ় অনুশাসন) দ্বারা। তুমি সোমের সঙ্গে সময়া (সম্মতি-যুক্ত সামঞ্জস্য)তে যুক্ত; তারা বলে, দিবি (স্বর্গে) তোমার তিনটি বন্ধন আছে।
असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुहे॑न । व्र॒तेन॑ । असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥असि । यमः । असि । आदित्यः । अर्वन् । असि । त्रितः । गुहेन । व्रतेन । असि । सोमेन । समया । विपृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि ॥asi | yamaḥ | asi | ādityaḥ | arvan | asi | tritaḥ | guhena | vratena | asi | somena | samayā | vi-pṛktaḥ | āhuḥ | te | trīṇi | divi | bandhanāni