Sukta 1.109
आ भरतं शिक्षतं वज्रबाहू अस्माँ इन्द्राग्नी अवतं शचीभिः । इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ॑न्द्राग्नी अवतं॒ शची॑भिः । इ॒मे नु ते र॒श्मय॒: सूर्य॑स्य॒ येभि॑: सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥
ā́ bharataṃ śíkṣataṃ vajrabāhū asmā́ṃ indrāgnī avataṃ śácībhiḥ | imé nu te raśmáyaḥ sū́ryasya yébhiḥ sapitváṃ pítaro na āsan ||
হে বজ্রবাহু! আমাদের কাছে আনো, আমাদের শিক্ষা দাও; হে ইন্দ্র–অগ্নি! তোমাদের শচী (কার্যকর শক্তি)-দ্বারা আমাদের রক্ষা করো। এ-ই তো সূর্যের সেই রশ্মিসমূহ, যাদের দ্বারা আমাদের পিতৃগণ দেববংশের সঙ্গে এক সাপিত্ব (এক-वंশতা) লাভ করেছিলেন।
आ । भ॒र॒त॒म् । शिक्ष॑तम् । व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ । अ॒व॒त॒म् । शची॑भिः । इ॒मे । नु । ते । र॒श्मयः॑ । सूर्य॑स्य । येभिः॑ । स॒ऽपि॒त्वम् । पि॒तरः॑ । नः॒ । आस॑न् ॥आ । भरतम् । शिक्षतम् । वज्रबाहू इति वज्रबाहू । अस्मान् । इन्द्राग्नी । अवतम् । शचीभिः । इमे । नु । ते । रश्मयः । सूर्यस्य । येभिः । सपित्वम् । पितरः । नः । आसन् ॥ā | bharatam | śikṣatam | vajrabāhū itivajra-bāhū | asmān | indrāgnī | avatam | śacībhiḥ | ime | nu | te | raśmayaḥ | sūryasya | yebhiḥ | sa-pitvam | pitaraḥ | naḥ | āsan