Akshi
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ॥ चित्तं तु शरदभ्रांशविलयं प्रविलीयते । सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः ॥ जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् । पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् । शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥ गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् । सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः ॥ अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् । परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः । षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥ यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः । केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥ निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः । अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥ षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ॥
भूमिका-त्रितयम् । जाग्रत् । चतुर्थी । स्वप्नः । उच्यते ॥ चित्तम् तु । शरद्-भ्र-अंश-विलयम् । प्रविलीयते । सत्त्व-अवशेषः एव । आस्ते । पञ्चमीम् । भूमिकाम् । गतः ॥ जगत्-विकल्पः । न उदेति । चित्तस्य । अत्र । विलापनात् । पञ्चमीम् । भूमिकाम् । एत्य । सुषुप्त-पद-नामिकाम् । शान्त-अशेष-विशेष-अंशः । तिष्ठति । अद्वैत-मात्रकः ॥ गलित-द्वैत-निर्भासः । मुदितः । अतः-प्रबोधवान् । सुषुप्त-मनः एव । आस्ते । पञ्चमीम् । भूमिकाम् । गतः ॥ अन्तर्मुखतया । तिष्ठन् । बहिः-वृत्ति-परः अपि । सन् । परिश्रान्ततया । नित्यम् । निद्रालुः-इव । लक्ष्यते ॥ कुर्वन् । अभ्यासम् । एतस्याम् । भूमिकायाम् । विवासनः । षष्ठीम् । तुर्य-अभिधाम् । अन्याम् । क्रमात् । पतति । भूमिकाम् ॥ यत्र । न । असत्-न-सत्-रूपः । न । अहम् । न अपि । अहं-कृतिः । केवलम् । क्षीण-मननम् । आस्ते । अद्वैते । अति-निर्भयः ॥ निर्ग्रन्थिः । शान्त-सन्देहः । जीवन्-मुक्तः । विभावनः । अनिर्वाणः अपि । निर्वाणः । चित्र-दीपः इव । स्थितः ॥ षष्ठ्याम् । भूमौ । असौ । स्थित्वा । सप्तमीम् । भूमिम् । आप्नुयात् ॥
bhūmikātritayaṃ jāgrac caturthī svapna ucyate || cittaṃ tu śaradabhrāṃśavilayaṃ pravilīyate | sattvāvaśeṣa evāste pañcamīṃ bhūmikāṃ gataḥ || jagadvikalpo nodeti cittasyātra vilāpanāt | pañcamīṃ bhūmikām etya suṣuptapadanāmikām | śāntāśeṣaviśeṣāṃśas tiṣṭhaty advaitamātrakaḥ || galitadvaैतanirbhāso mudito 'taḥprabodhavān | suṣuptamana evāste pañcamīṃ bhūmikāṃ gataḥ || antarmukhatayātiṣṭhan bahirvṛttiparo 'pi san | pariśrāntatayā nityaṃ nidrāluriva lakṣyate || kurvann abhyāsam etasyāṃ bhūmikāyāṃ vivāsanaḥ | ṣaṣṭhīṃ turyābhidhām anyāṃ kramāt patati bhūmikām || yatra nāsann asadrūpo nāhaṃ nāpy ahaṃkṛtiḥ | kevalaṃ kṣīṇamananam āste 'dvaite 'tinirbhayaḥ || nirgranthiḥ śāntasandeho jīvanmukto vibhāvanaḥ | anirvāṇo 'pi nirvāṇaś citradīpa iva sthitaḥ || ṣaṣṭhyāṃ bhūmāv asau sthitvā saptamīṃ bhūmim āpnuyāt ||
তিনিটা ভূমিকা ‘জাগ্ৰৎ’ আৰু চতুৰ্থটো ‘স্বপ্ন’ বুলি কোৱা হয়। মন শৰতৰ মেঘখণ্ড গলি যোৱাৰ দৰে লয় হয়; পঞ্চম ভূমিত উপনীতজন কেৱল সত্ত্ব-অৱশেষত থাকে। চিত্তলয় হোৱাৰ বাবে জগতৰ কল্পনা উদয় নহয়; ‘সুষুপ্ত-পদ’ নামৰ পঞ্চম ভূমিত আহি, অৱশিষ্ট বিশেষাংশ শান্ত হ’লে, সি কেৱল অদ্বৈতমাত্ৰ ৰূপে থাকে। দ্বৈতৰ ভাস গলি যোৱাত সি আনন্দিত আৰু অন্তঃপ্ৰবোধবান; পঞ্চম ভূমিত তাৰ মন সুষুপ্তিৰ দৰে থাকে। বাহ্যকর্মত ৰত থাকিও অন্তৰ্মুখ হৈ থাকে আৰু ক্লান্তিৰ বাবে সদায় নিদ্ৰালু যেন দেখা যায়। এই ভূমিত অভ্যাস কৰি বাসনাৰহিত হৈ, সি ক্ৰমে ‘তুৰ্য’ নামে ষষ্ঠ ভূমিত প্ৰৱেশ কৰে; তাত ন সৎ ন অসৎ; ন ‘মই’ ন ‘অহংকাৰ-ক্রিয়া’; কেৱল ক্ষীণ মনন অৱশিষ্ট—সি অদ্বৈতত নিৰ্ভয় থাকে। গ্ৰন্থিহীন, সন্দেহ শান্ত, জীৱন্মুক্ত—সি চিত্ৰদীপৰ দৰে স্থিত; ষষ্ঠত স্থিত হৈ সপ্তম ভূমি লাভ কৰে।
The three stages are termed ‘waking’, the fourth ‘dream’. The mind dissolves like the melting of fragments of autumn clouds; one who has reached the fifth stage remains with only sattva as residue. Because the mind is dissolved, the world’s conceptualization does not arise; reaching the fifth stage called ‘deep sleep’, with all particularities pacified, one abides as non-duality alone. With duality’s appearance gone, joyful and inwardly awakened, one remains with a deep-sleep-like mind. Though outwardly active, one stays inward-turned and appears drowsy. By practice in this stage, free of vāsanās, one gradually enters the sixth stage called turya, where there is neither being nor non-being, neither ‘I’ nor ‘I-making’; only attenuated mentation remains in fearless non-duality. Knotless and doubtless, living-liberated, he stands like a painted lamp; established in the sixth, he attains the seventh.