मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनि॑: प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्र ण॑य॒न्त्वना॑धृष्टासि
máno na yéṣu hávaneṣu tigmáṃ vípaḥ śácyā vanútho drávantā | ā́ yaḥ śaryā́bʰis tuvínṛmṇo asyā́śrīṇītā́diśaṃ gábhastāv eṣá te yóniḥ | prajā́ḥ pāhi | ápamṛṣṭo márko devā́s tvā manthipā́ḥ prá ṇayantu anā́dhṛṣṭo'si
যেন মন দ্ৰুত, তেনেই সেই আহ্বানসমূহত তীক্ষ্ণ (পানীয়) দৌৰি যায়; বিপ্ৰসকলে নিজৰ শক্তিৰে, দৌৰি থকা তাক জয় কৰে। যি শীঘ্ৰ গতিৰে, মহাবলেৰে, হাতত ধৰি দিশত উপনীত হয়—এই তোমাৰ যোনি। প্ৰজাসকলক ৰক্ষা কৰা! অপমৃষ্ট (শুদ্ধ) মৰ্কা। দেবতা—মন্থিপা (মথি পান কৰা)—তোমাক আগবঢ়াওক; তুমি অনাধৃষ্ট (অজেয়) আছা।
मनो॒ । न । येषु॒ । हव॑नेषु । ति॒ग्मम् । विप॒ः । शच्या॑ । व॒नु॒थः । द्रव॑न्ताः । आ । यः । शर्या॑भिः । तु॒वि॒नृ॒म्णः । अ॒स्य । आ॒श्री॑णीता । आ॒दिश॑म् । गभ॑स्तौ । ए॒षः । ते॒ । योनि॑ः । प्र॒जाः । पा॒हि । अप॑मृष्टः । मर्कः॑ । दे॒वाः । त्वा॒ । म॒न्थि॒पाः । प्र । न॒य॒न्तु॒ । अना॑धृष्टः । अ॒सि॒