यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्यासी॒त् किं बा॒हू किमू॒रू पादा॑ उच्येते
yát púruṣaṃ vyádadhuḥ katidhā́ vyàkalpayan | múkhaṃ kím asyāsīt kíṃ bāhū́ kím ūrū́ pā́dā ucyete
যেতিয়া পুৰুষক বিভাজন কৰিলে, কিমান ধৰণে তেওঁক বিন্যাস কৰিলে? তেওঁৰ মুখ কি আছিল? বাহু দুটা কি আছিল? উৰু আৰু পাদ—কি বুলি কোৱা হয়?
यत् । पुरुषम् । वि । अदधुः । कति-धा । वि । अकल्पयन् । मुखम् । किम् । अस्य । आसीत् । किम् । बाहू । किम् । ऊरू । पादाः । उच्येते