अ॒ग्निᳪ होता॑रं मन्ये॒ दास्व॑न्तं॒ वसु॑ᳪ सू॒नुᳪ सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् । य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ऽऽजुह्वा॑नस्य स॒र्पिष॑ः
agníṃ hótāraṃ manye dā́svantaṃ vásuṃ sūnúṃ sáhaso jātávedasaṃ vípraṃ na jātávedasam | yá ūrdhvā́yā svadhvaró devó devā́cyā kṛ́pā | ghṛtásya víbhrāṣṭim ánu vaṣṭi śocíṣā''juhvā́nasya sárpiṣaḥ ||
অগ্নিক হোতা বুলি মই মানো—দাতা, ধন-ভাণ্ডাৰ; সহসৰ পুত্ৰ, জাতবেদস; ঋষি, জাতবেদসেই। যি ঊৰ্ধ্বগতিৰে, সু-অধ্বৰ (সু-যজ্ঞ) সহিত, দেব-সদৃশ ৰূপে দেব; যজ্ঞকাৰীৰ সৰ্পিষ (ঘোল-মাখন)ৰ ঘৃতৰ দীপ্ত শিখা-বিন্দুক শোচিষা (জ্যোতি)ৰে অনুসৰণ কৰে।
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जातवेदसम् । विप्रम् । न । जातवेदसम् । यः । ऊर्ध्वया । स्वध्वरः । देवः । देव-अच्या । कृपा । घृतस्य । विभ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिषः ।