Sukta 6.50
उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः । त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥
उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रि॑: । त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभि॑: पृथि॒वी स॑मु॒द्रैः ॥
utá syá deváḥ savitā́ bhágo no ’pā́ṃ napād avatu dā́nu pápriḥ | tváṣṭā devebhír jánibhiḥ sajóṣā dyáur devebhíḥ pṛthivī́ samudráiḥ ||
আৰু সেই দেৱ সৱিতা, ভগ আমাৰ ৰক্ষা কৰক; আৰু অপাং নপাত—ধাৰাসমূহ পূৰ্ণ কৰি—আমাক সংৰক্ষণ কৰক। দেৱসমূহৰ জন্মসমূহৰ সৈতে একমতে ত্বষ্টা, আৰু দেৱসমূহৰ সৈতে দ্যৌ (আকাশ), আৰু সমুদ্ৰসমূহৰ সৈতে পৃথিৱী—আমাৰ আধাৰক ধৰি ৰাখক আৰু বিস্তাৰ কৰক।
उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः॑ । नः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । दानु॑ । पप्रिः॑ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । स॒ऽजोषाः॑ । द्यौः । दे॒वेभिः॑ । पृ॒थि॒वी । स॒मु॒द्रैः ॥उत । स्यः । देवः । सविता । भगः । नः । अपाम् । नपात् । अवतु । दानु । पप्रिः । त्वष्टा । देवेभिः । जनिभिः । सजोषाः । द्यौः । देवेभिः । पृथिवी । समुद्रैः ॥uta | syaḥ | devaḥ | savitā | bhagaḥ | naḥ | apām | napāt | avatu | dānu | papriḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | sa-joṣāḥ | dyauḥ | devebhiḥ | pṛthivī | samudraiḥ