Sukta 6.47
इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् । यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥
इन्द्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा॑म् । यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥
índra mṛḷa máhyaṃ jīvátum iccha codáya dhíyam áyaso ná dhā́rām | yát kiṃ cāháṃ tvā́yur idáṃ vádāmi tát juṣasva kṛdhí mā devávantam ||
হে ইন্দ্ৰ, মোৰ প্ৰতি কৃপালু হওক; মোৰ বাবে জীৱাতু—জীৱনৰ শক্তি—ইচ্ছা কৰা। লোহাৰ দৰে কঠিন বাধা ভেদি ওলোৱা ধাৰাৰ দৰে মোৰ ধী (বুদ্ধি)ক প্ৰেৰণা দিয়া। যি কিবা মই, তোমাৰ অন্তৰস্থিত আয়ু-প্ৰাণৰূপে, ইয়াত কওঁ—সেয়া গ্ৰহণ কৰা, আৰু মোক দেৱবন্ত—দেৱশক্তিৰে পূৰ্ণ—কৰা।
इन्द्र॑ । मृ॒ळ । मह्य॑म् । जी॒वातु॑म् । इ॒च्छ॒ । चो॒दय॑ । धिय॑म् । अय॑सः । न । धारा॑म् । यत् । किम् । च॒ । अ॒हम् । त्वा॒ऽयुः । इ॒दम् । वदा॑मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒वऽव॑न्तम् ॥इन्द्र । मृळ । मह्यम् । जीवातुम् । इच्छ । चोदय । धियम् । अयसः । न । धाराम् । यत् । किम् । च । अहम् । त्वायुः । इदम् । वदामि । तत् । जुषस्व । कृधि । मा । देववन्तम् ॥indra | mṛḷa | mahyam | jīvātum | iccha | codaya | dhiyam | ayasaḥ | na | dhārām | yat | kim | ca | aham | tvāyuḥ | idam | vadāmi | tat | juṣasva | kṛdhi | mā | deva-vantam