Sukta 4.50
अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या । अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥
अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या । अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ॥
ápratīto jayati sáṃ dhánāni práti-janyāny utá yā́ sá-janyā | avasyáve yó várivaḥ kṛṇóti bráhmaṇe rājā́ tám avanti devā́ḥ ||
অপ্ৰতিহত হৈ সি ধনসমূহ একেলগে জয় কৰে—শত্ৰুৰ ধনো, আৰু নিজৰ স্বজনৰ ধনো; যি প্ৰয়োজনত ব্ৰাহ্মণৰ বাবে বিস্তৃত আশ্ৰয়/অৱকাশ (ৱৰিবঃ) কৰি দিয়ে। ব্ৰহ্মণক সন্মান কৰি সেৱা কৰা সেই ৰজাক দেৱতাসকলে ৰক্ষা কৰে।
अप्र॑तिऽइतः । ज॒य॒ति॒ । सम् । धना॑नि । प्रति॑ऽजन्यानि । उ॒त । या । सऽज॑न्या । अ॒व॒स्यवे॑ । यः । वरि॑वः । कृ॒णोति॑ । ब्र॒ह्मणे॑ । राजा॑ । तम् । अ॒व॒न्ति॒ । दे॒वाः ॥अप्रतिइतः । जयति । सम् । धनानि । प्रतिजन्यानि । उत । या । सजन्या । अवस्यवे । यः । वरिवः । कृणोति । ब्रह्मणे । राजा । तम् । अवन्ति । देवाः ॥aprati-itaḥ | jayati | sam | dhanāni | prati-janyāni | uta | yā | sa-janyā | avasyave | yaḥ | varivaḥ | kṛṇoti | brahmaṇe | rājā | tam | avanti | devāḥ