Sukta 10.54
तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥
तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑: प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥
tā́ṃ su té kīrtíṃ maghavan mahitvā́ yát tvā bhī́te ródasī́ ahváyetām | prā́vo devā́ṃ ā́tiro dā́sám ójaḥ prajā́yai tvásyai yád áśikṣa índra ||
হে মঘৱন (দানশীল) ইন্দ্ৰ, তোমাৰ সেই কীৰ্তি—সেইয়েই তোমাৰ মহিমা; ভীত হৈ দ্যৌ আৰু পৃথিৱীয়ে তোমাক আহ্বান কৰিছিল। তুমি দেৱসকলক ৰক্ষা কৰিলা; বলত দাসক অতিক্ৰম কৰিলা; আৰু এই প্ৰজাৰ বাবে উপদেশ আৰু শক্তি দান কৰিলা, হে ইন্দ্ৰ।
ताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् । प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इन्द्र ॥ताम् । सु । ते । कीर्तिम् । मघवन् । महित्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् । प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥tām | su | te | kīrtim | magha-van | mahi-tvā | yat | tvā | bhīte iti | rodasī iti | ahvayetām | pra | āvaḥ | devān | ā | atiraḥ | dāsam | ojaḥ | pra-jāyai | tvasyai | yat | aśikṣaḥ | indra