Sukta 10.130
कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । छन्दः किमासीत्प्रउगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् । छन्द॒: किमा॑सी॒त्प्रउ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ॥
kā́sīt pramā́ pratimā́ kíṃ nidā́nam ā́jyaṃ kím āsīt paridhíḥ ká āsīt | chándaḥ kím āsīt práugaṃ kím uktháṃ yád devā́ devám ayajanta víśve ||
কি আছিল মাপ, কি আছিল প্ৰতিমাপ, কি আছিল নিদান (ভিত্তি)? কি আছিল আজ্য (ঘৃত), কি আছিল পৰিধি (আৱৰক বেষ্টনী)? কি আছিল ছন্দ, কি আছিল প্ৰউগ, আৰু কি আছিল উক্থ—যেতিয়া বিশ্বদেৱাসকলে দেৱক (অন্তৰস্থিত দিৱ্যতাক) যজ্ঞ কৰিলে?
का । आ॒सी॒त् । प्र॒ऽमा । प्र॒ति॒ऽमा । किम् । नि॒ऽदान॑म् । आज्य॑म् । किम् । आ॒सी॒त् । प॒रि॒ऽधिः । कः । आ॒सी॒त् । छन्दः॑ । किम् । आ॒सी॒त् । प्रउ॑गम् । किम् । उ॒क्थम् । यत् । दे॒वाः । दे॒वम् । अय॑जन्त । विश्वे॑ ॥का । आसीत् । प्रमा । प्रतिमा । किम् । निदानम् । आज्यम् । किम् । आसीत् । परिधिः । कः । आसीत् । छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥kā | āsīt | pra-mā | prati-mā | kim | ni-dānam | ājyam | kim | āsīt | pari-dhiḥ | kaḥ | āsīt | chandaḥ | kim | āsīt | praugam | kim | uktham | yat | devāḥ | devam | ayajanta | viśve