Sukta 1.162
मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः । इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रि॑: । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒: प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥
mā tvāgnír dhvánayīd dhūmá-gandhir mókhā bhrā́janty abhí vikta jághriḥ | iṣṭáṃ vītám abhí-gūrtaṃ váṣaṭ-kṛtaṃ táṃ devā́saḥ práti gṛbhṇanty áśvam ||
ধোঁৱা-গন্ধি গর্জন কৰা অগ্নিয়ে তোমাক কষ্ট নিদিয়ক; দীপ্ত উখাই তোমাক ধৰি দগ্ধ নকৰক। ইষ্ট, স্বাগত, সু-আহূত, আৰু ‘বষট্’ ধ্বনিয়ে সজ্জিত—সেই অশ্বক দেৱসকলে গ্ৰহণ কৰি নিজৰ কৰি লয়।
मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ । इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥मा । त्वा । अग्निः । ध्वनयीत् । धूमगन्धिः । मा । उखा । भ्राजन्ती । अभि । विक्त । जघ्रिः । इष्टम् । वीतम् । अभिगूर्तम् । वषट्कृतम् । तम् । देवासः । प्रति । गृभ्णन्ति । अश्वम् ॥mā | tvā | agniḥ | dhvanayīt | dhūma-gandhiḥ | mā | ukhā | bhrājantī | abhi | vikta | jaghriḥ | iṣṭam | vītam | abhi-gūrtam | vaṣaṭ-kṛtam | tam | devāsaḥ | prati | gṛbhṇanti | aśvam