Sukta 1.123
भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व । पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥
भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुष॑: सूनृते प्रथ॒मा ज॑रस्व । प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥
bhágasya svásā váruṇasya jāmír uṣaḥ sūnṛte prathamā́ jarasva | paścā́ sá dadhyā yó aghásya dhātā́ jáyema táṃ dakṣiṇáyā ráthena ||
হে উষা, সুনৃতা—ভগৰ ভগ্নী, বৰুণৰ জ্ঞাতি—অগ্ৰভাগত প্ৰথমে দীপ্ত হওক। তাৰ পাছত অঘৰ বিৰুদ্ধে আমাক ধৰি ৰখা যি শক্তি-ধাতা, তাক স্থাপন কৰি জয় কৰোঁ; দক্ষিণা-দায়িনী শক্তিৰে, ঋত-অৰ্পণৰ ৰথেৰে তাক বিজয় কৰোঁ।
भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ । प॒श्चा । सः । द॒ध्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व । पश्चा । सः । दध्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन ॥bhagasya | svasā | varuṇasya | jāmiḥ | uṣaḥ | sūnṛte | prathamā | jarasva | paścā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā | jayema | tam | dakṣiṇayā | rathena