Sukta 1.122
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् । स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिॠतावा ॥
जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् । स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिॠ॒तावा॑ ॥
jáno yo mítrāvaruṇāv abhí-dhrug ápo ná vām sunóty akṣṇayā́-dhruk | svayáṃ sá yákṣmaṃ hṛ́daye ní dhatta ā́pa yád īṃ hotrā́bhiḥ ṛtā́vā ||
মানুহৰ মাজত যি মিত্র-বৰুণৰ প্ৰতি বৈৰী হয়, আৰু তোমালোকৰ বাবে শোধনৰ জল নি-চেপে—চকুৰে আঘাত কৰা সেইজন—সেইয়ে নিজ হৃদয়তে ৰোগ স্থাপন কৰে, যেতিয়া সি ঋত (ṛta)-ত স্থিত, হোত্ৰ-শক্তিৰে সত্যজীৱীসকলক দমন কৰে।
जनः॑ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒ऽध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति॑ । अ॒क्ष्ण॒या॒ऽध्रुक् । स्व॒यम् । सः । यक्ष्म॑म् । हृद॑ये । नि । ध॒त्त॒ । आप॑ । यत् । ई॒म् । होत्रा॑भिः । ऋ॒तऽवा॑ ॥जनः । यः । मित्रावरुणौ । अभिध्रुक् । अपः । न । वाम् । सुनोति । अक्ष्णयाध्रुक् । स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्त । आप । यत् । ईम् । होत्राभिः । ऋतवा ॥janaḥ | yaḥ | mitrāvaruṇau | abhi-dhruk | apaḥ | na | vām | sunoti | akṣṇayādhruk | svayam | saḥ | yakṣmam | hṛdaye | ni | dhatta | āpa | yat | īm | hotrābhiḥ | ṛta-vā