Sukta 1.120
दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । इषे च नो मिमीतं धेनुमत्यै ॥
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै । इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥
duhī́yan mitrádhitaye yuvā́ku rāyé ca no mimītaṃ vā́javatyai | iṣé ca no mimītaṃ dhenúmatyai ||
মিত্রৰ আধাৰ-সামঞ্জস্য (মিত্রধিতি)ৰ বাবে দুগ্ধ দোহি উলিয়াই, হে তোমালোক দুজন, আমাৰ বাবে ৰায় (সমৃদ্ধি) আৰু বাজৱতী (বীৰ্য-সমৃদ্ধি) মাপি দিয়া। আৰু আমাৰ বাবে ইষা (অন্বেষণ-শক্তি)ও মাপি দিয়া—ধেনুমতী, আলোক-গাভীৰে সমৃদ্ধ।
दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै । इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥दुहीयन् । मित्रधितये । युवाकु । राये । च । नः । मिमीतम् । वाजवत्यै । इषे । च । नः । मिमीतम् । धेनुमत्यै ॥duhīyan | mitra-dhitaye | yuvāku | rāye | ca | naḥ | mimītam | vāja-vatyai | iṣe | ca | naḥ | mimītam | dhenu-matyai