Sukta 1.105
अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि । उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥
अ॒रु॒णो मा॑ स॒कृद्वृक॑: प॒था यन्तं॑ द॒दर्श॒ हि । उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
aruṇó mā sakṛ́d vṛ́kaḥ pathā́ yántaṁ dadarśa hí | új jihīte ni-cā́yyā taṣṭéva pṛṣṭy-āmayī́ vittáṁ me asyá rodasī ||
অৰুণ বৰ্ণৰ নেকুৰে এবাৰ পথেদি যোৱা মোক দেখিলে। তলৰ পৰা চাই সি চোয়াল মেলি উঠে—কাৰিগৰৰ গঢ়া অস্ত্ৰ যেন কাষ কাটি পেলায়। এই ভক্ষণকাৰী বিপদৰ পৰা পলোৱা এই লাভ মোৰ ভিতৰত দ্যৌঃ-পৃথিৱীয়ে দৃঢ় কৰি দিওক।
अ॒रु॒णः । मा॒ । स॒कृत् । वृकः॑ । प॒था । यन्त॑म् । द॒दर्श॑ । हि । उत् । जि॒ही॒ते॒ । नि॒ऽचाय्य॑ । तष्टा॑ऽइव । पृ॒ष्टि॒ऽआ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अरुणः । मा । सकृत् । वृकः । पथा । यन्तम् । ददर्श । हि । उत् । जिहीते । निचाय्य । तष्टाइव । पृष्टिआमयी । वित्तम् । मे । अस्य । रोदसी इति ॥aruṇaḥ | mā | sakṛt | vṛkaḥ | pathā | yantam | dadarśa | hi | ut | jihīte | ni-cāyya | taṣṭāiva | pṛṣṭi-āmayī | vittam | me | asya | rodasī iti