Kaivalya
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति । न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ॥२३॥
न । पुण्य-पापे । मम । न । अस्ति । नाशः । न । जन्म । देह-इन्द्रिय-बुद्धिः । अस्ति । न । भूमिः । आपः । न । च । वह्निः । अस्ति । न । च । अनिलः । मे । अस्ति । न । च । अम्बरम् । च ।
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhir asti | na bhūmir āpo na ca vahnir asti na cānilo me ’sti na cāmbaram ca ||
ليس لي ثواب ولا إثم؛ وليس لي فناء. لا ولادة لي؛ ولا جسد ولا حواس ولا عقل. ليست لي أرض ولا ماء، ولا نار؛ ولا هواء لي، ولا أثير أيضًا.
For me there are neither merit nor demerit; there is no destruction; there is no birth; there is no body, senses, or intellect. There is neither earth nor water, nor is there fire; nor is there air for me, nor ether as well.