प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
práitu bráhmaṇaspátiḥ prá devy ètu sū́nṛtā | ácchā vī́raṃ náryaṃ paṅktírādhasaṃ devā́ yajñáṃ nayantu naḥ | makhā́ya tvā makhásya tvā śī́rṣṇe | makhā́ya tvā makhásya tvā śī́rṣṇe | makhā́ya tvā makhásya tvā śī́rṣṇe
لِيَتَقَدَّمْ بْرَهْمَنَسْبَتِي؛ وَلْتَتَقَدَّمْ سُونْرِتَا الإِلَهِيَّةُ. إِلَى البَطَلِ الرَّجُلِيِّ، المُزْدَهِرِ فِي النِّظَامِ الخُمَاسِيِّ—فَلْيَقُدِ الآلِهَةُ يَجْنَا لَنَا. لِمَخَا أَنْتَ؛ وَلِرَأْسِ مَخَا أَنْتَ! (ثَلاثَ مَرَّات).
प्र । एतु । ब्रह्मणः-पतिः । प्र । देवी । एतु । सूनृता । अच्छा । वीरम् । नर्यम् । पङ्क्ति-राधसम् । देवाः । यज्ञम् । नयन्तु । नः । मखाय । त्वा । मखस्य । त्वा । शीर्ष्णे । (इति त्रिः)