सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव । हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
suṣāráthir·aśvā́n·iva·yán·manuṣyā́n·nenīyáte·’bhī́śubhir·vājína·iva | hṛt-prátiṣṭhaṃ·yád·ajiráṃ·jávīṣṭhaṃ·tán·me·máṇaḥ·śivá-saṅkalpam·astu
كالسائسِ الماهرِ الذي يسوقُ الناسَ كأنهم خيلٌ، بلُجُمِها، كما يُساقُ الجوادُ السريع؛ ذلك الذي استقرَّ في القلب، غيرُ بطيءٍ، هو الأشدُّ عَدْواً—فليكن ذلك الذهنُ مني ذا قصدٍ ميمونٍ مبارك.
सु-सारथिः । अश्वान्-इव । यत् । मनुष्याः । न-इनीयते । अभीशुभिः । वाजिनः । इव । हृत्-प्रतिष्ठम् । यत् । अजिरम् । जविष्ठम् । तत् । मे । मनः । शिव-सङ्कल्पम् । अस्तु ।