यस्मि॒न्नृच॒: साम॒ यजू॑ᳪषि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः । यस्मिँ॑श्चि॒त्तᳪ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
yásmin·nṛ́caḥ·sā́ma·yájūṃṣi·yásmin·prátiṣṭhitā·rathanā́bhau·ivá·arā́ḥ | yásmiṃś·cíttaṃ·sárvam·ótam·prajā́nāṃ·tán·me·máṇaḥ·śivá-saṅkalpam·astu
الذي فيه تُثبَّتُ أناشيدُ الرِّك (Ṛk) والسَّامان (Sāman) وصيغُ اليَجُس (Yajus)، كما تُثبَّتُ أسلاكُ العجلة في سُرَّتها؛ والذي فيه يَنسَجُ فكرُ الخلائق كلُّه—فليكن ذلك الذهنُ مني ذا قصدٍ ميمونٍ مبارك.
यस्मिन् । ऋचः । साम । यजूंषि । यस्मिन् । प्रतिष्ठिताः । रथनाभौ । इव । अराः । यस्मिन् । चित्तम् । सर्वम् । ओतम् । प्रजानाम् । तत् । मे । मनः । शिव-सङ्कल्पम् । अस्तु ।