स॒प्त ऋष॑य॒: प्रति॑हिता॒: शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् । स॒प्ताप॒: स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ अस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ
saptá ṛ́ṣayaḥ pratihitā́ḥ śárīre saptá rakṣanti sádám apramā́dam | saptā́paḥ svápato lokám īyus tátra jāgṛto asvapnajau satrasádau ca deváu
سبعةُ رِشيّات (ṛṣi) مُثَبَّتون في الجسد؛ وسبعةٌ يَحْرُسونه دائمًا بلا غفلة. سبعُ مياهٍ مضت إلى عالمِ النوم؛ وهناك الإلهانِ الاثنان، لا ينامان، مُقيمَان في السَّتْرَة (sattra)، يَسْهَرانِ للحراسة.
सप्त । ऋषयः । प्रति-हिताः । शरीरे । सप्त । रक्षन्ति । सदम् । अप्रमादम् । सप्त । आपः । स्वपतः । लोकम् । ईयुः । तत्र । जागृतः । अस्वप्न-जौ । सत्र-सदौ । च । देवौ