अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्य॒ᳪ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ । इ॒मा उ॑ त्वा यस्या॒यम॒यᳪ स॒हस्र॑मू॒र्ध्व ऊ॒ षु ण॑:
asyéd índro vāvṛdhe vṛ́ṣṇyaṃ śávo máde sutásya víṣṇavi | adyā́ tám asya mahimā́nam āyávo'nu ṣṭuvanti pū́rvathā | imā́ u tvā yasyāyám ayáṃ sahásram ūrdhvá ū ṣú naḥ
بهذا (الشراب) اشتدَّ إندرا—قوّتُه الرجوليّة—في نشوةِ سوما المعصور، يا فيشنو. واليومَ يَتْبَعُ العابدون، كما في القديم، ويُسبِّحون عظمته. وهذه الأناشيدُ حقًّا لك—أنتَ الذي لك هذا وهذا (الاقتدار) ألفُ ضعفٍ، ساميًا مرتفعًا لنا.
अ॒स्य । इत् । इन्द्रः॑ । वावृधे । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि । अ॒द्य । तम॑स्य । महि॒मान॑म् । आ॒यवः॑ । अनु॑ । ष्टुवन्ति । पू॒र्वथा॑ । इ॒माः । उ॒ । त्वा॒ । यस्य॑ । अ॒यम् । अ॒यम् । स॒हस्र॑म् । ऊ॒र्ध्वः । ऊ॒ । सु । नः ।