प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते । तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न् ह तस्थु॒र्भुव॑नानि॒ विश्वा॑
prajā́patiś carati gárbhe antár ajā́yamāno bahudhā́ vi jā́yate | tásya yóniṃ pári paśyanti dhīrā́s tásmin ha tasthúr bhúvanāni víśvā
يَسيرُ براجاپَتي داخلَ الرَّحِم؛ وهو غيرُ مولودٍ بعدُ، يولَدُ على أنحاءٍ كثيرة. الحكماءُ يُبصِرونَ رَحِمَهُ من كلِّ جانب؛ وفيه حقًّا قد استقرَّتِ العوالمُ كلُّها.
प्र॒जा-प॑तिः । च॒रति॑ । गर्भे॑ । अ॒न्तः । अ॒-जा॑यमानः । बहु॒धा । वि । जा॑यते । तस्य॑ । योनि॑म् । परि॑ । पश्यन्ति । धीरा॑ः । तस्मि॑न् । ह । तस्थुः । भुव॑नानि । विश्वा॑