बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा
bṛ́haspate áti yád aryó árhād dyumád vibhā́ti krátum aj jáneṣu | yád dī́dayac chávasa ṛtaprajāta tád asmā́su dráviṇaṃ dhehi citrám | upayā́magṛhīto ’si bṛ́haspátaye tvā́ eṣá te yóniḥ bṛ́haspátaye tvā́
يا بْرِهَسْپَتي، إنَّ ما يتلألأ—متجاوزًا استحقاقَ المستحقّ—بهاءً، ومشورةً نافذةً بين الناس؛ وما وُلِد من Ṛta (النظام الحقّ) فأوقدتَه بقوّتك—فاجعلْ فينا ذلك الكنزَ المتنوّع العجيب. أُخِذتَ بصيغة الأُپَياما (Upayāma)؛ أنتَ لِبْرِهَسْپَتي. هذا مَهدُك/رَحِمُك؛ لِبْرِهَسْپَتي أنتَ.
बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒मत् । वि॒भाति॑ । क्रतु॑म् । अ॒त् । जने॑षु । यत् । दी॒दय॑त् । शव॑सः । ऋ॒त॒-प्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि । चि॒त्रम् । उ॒प॒या॒म-गृ॑हीतः । अ॒सि । बृह॒स्पत॑ये । त्वा । ए॒षः । ते॒ । योनि॑ः । बृह॒स्पत॑ये । त्वा