अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन । अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः
améva naḥ suhavā́ ā́ hí gantana ní barhíṣi sadatanā́ ráṇiṣṭana | áthā mandasva jujuṣāṇó ándhasas tváṣṭar devébhir jánibhiḥ sumádgaṇaḥ
هَلُمُّوا إلينا، يا سَهْلَ الاستدعاءِ؛ اجلسوا على عُشبِ البَرْهِسِ، وابتهجوا. ثمَّ انتشِ، قابِلًا هذا العَصير، يا تْفَشْتَرْ، مع الآلهة، مع الأجناسِ الإلهية، يا صاحبَ الصحبةِ الكريمة.
अ॒मेव॑ । नः । सु॒ह॒वाः । आ । हि । गन्तन । नि । ब॒र्हिषि॑ । सदत॒न । रणि॑ष्टन । अथा॑ । मन्दस्व । जुजुषा॒णः । अन्ध॑सः । त्वष्टः । दे॒वेभिः । जनि॑भिः । सु॒मत्-ग॒णः ।