रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रु॒: शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यत॑: शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यत॑: शितिबाहु सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरु॒ण्य॒:
róhito dhūmráróhitaḥ karkándhuróhitas te saumyā́ḥ | babhrúr aruṇababhrúḥ śukababhrús te vāruṇā́ḥ | śitirándhro 'nyatáḥ śitirándhraḥ samántaśitirándhras te sāvitrā́ḥ | śitibāhúr anyatáḥ śitibāhu samántaśitibāhus te bārhaspatyā́ḥ | pṛ́ṣatī kṣudrápṛṣatī sthūlápṛṣatī tā́ maitrāvaruṇyàḥ
الأحمرُ، والأحمرُ الدُّخانيّ، والأحمرُ كالعُنّاب—هؤلاء لسوما. والأشقرُ، والأشقرُ المُحْمَرّ، والأشقرُ كلونِ الببغاء—هؤلاء لڤارونا. ذو الثُّقوبِ البيضاء من جهة، وذو الثُّقوبِ البيضاء من الجهة الأخرى، وذو الثُّقوبِ البيضاء من كلِّ جانب—هؤلاء لسافيتṛ. ذو الذراعِ البيضاء من جهة، وذو الذراعِ البيضاء من الجهة الأخرى، وذو الذراعِ البيضاء من كلِّ جانب—هؤلاء لبْرِهَسْپَتي. المُرَقَّط، والمُرَقَّطُ الدقيق، والمُرَقَّطُ الغليظ—هؤلاء لميترا‑ڤارونا.
रोहितः । धूम्र-रोहितः । कर्कन्धु-रोहितः । ते । सौम्याः । बभ्रुः । अरुण-बभ्रुः । शुक-बभ्रुः । ते । वारुणाः । शिति-रन्ध्रः । अन्यतः । शिति-रन्ध्रः । समन्त-शिति-रन्ध्रः । ते । सावित्राः । शिति-बाहुः । अन्यतः । शिति-बाहुः । समन्त-शिति-बाहुः । ते । बार्हस्पत्याः । पृषती । क्षुद्र-पृषती । स्थूल-पृषती । ताः । मैत्रावरुण्याः