यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः । तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑ता अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ॥
yā́m paridhím paryádhatthā́ agne deva paṇíbhir guhyámānaḥ | táṃ ta etám ánu jóṣaṃ bharāmi eṣá nét tvád apacetayātā́ agnéḥ priyáṃ pā́tho ’pītám ||
يا أغني، أيها الإله، إنَّ عودَ الإحاطة (البارِدهي paridhi) الذي أقمتَه حولَك حين كنتَ مُستَخفًى من قِبَلِ البانيين (Pani)—ذاك بعينه أقدّمه لك الآن لتقبّله برضاك. فلا يَكُنْ إذا فارقَك سببًا في إيقاعنا في الغفلة؛ إنّه شرابُ أغني المحبوب، قد شُرِبَ على وجهه.
यम् । परिधिम् । परि-अधत्थाः । अग्ने । देव । पणिभिः । गुह्यमानः । तम् । ते । एतम् । अनु । जोषम् । भरामि । एषः । नः । इत् । त्वत् । अप-चेतयाता । अग्नेः । प्रियम् । पाथः । अपीतम् ।