ए॒तᳪ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तᳪ स्म॑ जानीत पर॒मे व्यो॑मन्
etáṃ sádhastha pári te dadāmi yám ā́vahā́c chevadhíṃ jātávedāḥ | anvāgántā yajñápatir vo átra táṃ smá jānīta paramé vyòman
هذا المقعدُ أُحيطُه حولك وأهبُه لك—ذلك الكنزُ الذي جاء به جاتافيداس إلى هنا. وعلى الأثر، ربُّ اليَجْنَة (القربان) حاضرٌ هنا لكم؛ فاعرفوه حقًّا في السماء الأعلى.
एतम् । सधस्थ । परि । ते । ददामि । यम् । आवहात् । शेवधिम् । जातवेदाः । अन्वागन्ता । यज्ञपतिः । वः । अत्र । तम् । स्म । जानीत । परमे । व्योमन्