प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
paṣṭhavā́ṭ ca me paṣṭauhī́ ca ma ukṣā́ ca me vaśā́ ca ma ṛṣabháś ca me vehác ca me ’naḍvā́ṁś ca me dhenúś ca me yajñéna kalpantām
الـPaṣṭhavāṭ والـpaṣṭauhī؛ والثورُ والبقرةُ العاقر؛ والثورُ والبقرةُ غيرُ المُنْتِجة؛ وثورُ الجرّ والبقرةُ الحلوب—فلتُجْعَلْ هذه كلُّها، بوساطة اليَجْنَا (التضحية المقدّسة)، صالحةً ونافعةً لي.
पष्ठवाट् च मे । पष्ठौही च मे । उक्षा च मे । वशा च मे । ऋषभः च मे । वेहत् च मे । अनड्वान् च मे । धेनुः च मे । यज्ञेन कल्पन्ताम् ।