असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑मस्तु
ásunvantam áyajamānam iccha sténasya íty ā́m anvihi táskarasya | anyám asmád iccha sā́ ta itý ā́ námo devi nírṛte túbhyam astu
اطلبي غيرَ العاصرِ (للسوما)، غيرَ المُقَرِّبِ للقرابين: «للّصّ»—هكذا اتّبعي أثرَه؛ «للسارق/قاطع الطريق». واطلبي غيرَنا: «فليكن ذلك لكِ»—هكذا نقول. لكِ السجودُ، يا إلهة نِرِرْتي (Nirṛti).
असुन्वन्तम् । अयजमानम् । इच्छ । स्तेनस्य । इति । आम् । अन्विहि । तस्करस्य । अन्यम् । अस्मत् । इच्छ । सा । ते । इति । आ । नमः । देवि । निरृते । तुभ्यम् । अस्तु ।