देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु
devá savitaḥ prá suva yajñáṃ prá suva yajñápatim bhágāya | divyó gandharváḥ ketapū́ḥ kétaṃ naḥ punātu vā́caspátir vā́caṃ naḥ svadatu
يا إلهَ سافيتْرِ (Savitṛ)، ادفعْ قُدُمًا اليَجْنَا (yajña)؛ وادفعْ قُدُمًا ربَّ اليَجْنَا لنصيبِ بَهَغَا (Bhaga). لِيُطَهِّرْ لنا الغَنْدَهَرْفَا السماويُّ، مُنقّي العلامة، العلامةَ؛ ولْيُحَلِّ وَاچَسْپَتِي (Vācaspati) كلامَنا.
देव॑ । स॒वि॒त॒ः । प्र । सु॒व । य॒ज्ञम् । प्र । सु॒व । य॒ज्ञ-प॑तिम् । भगा॑य । दि॒व्यः । ग॒न्ध॒र्वः । के॒त॒पूः । के॒तम् । नः । पु॒ना॒तु । वा॒चः-पतिः॑ । वा॒चम् । नः । स्व॒द॒तु