Sukta 9.107
अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः । जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥
अ॒पो वसा॑न॒: परि॒ कोश॑मर्ष॒तीन्दु॑र्हिया॒नः सो॒तृभि॑: । ज॒नय॒ञ्ज्योति॑र्म॒न्दना॑ अवीवश॒द्गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥
apó vásānaḥ pári kóśam arṣatī́ndur hiyānáḥ sotṛ́bh iḥ | janáyan jyótir mandánā avīvaśád gā́ḥ kṛṇvānáḥ ná nirṇíjam ||
مُتَّشِحًا بالمياه، ينساب القَطْرُ (إندو) حول الإناء، مدفوعًا بعاصريه. مُولِّدًا النور، مبتهجًا، يُطلِق الأشعّة (الأبقار) لتتألّق، كمن يصوغ رداءً مُشِعًّا—كسوةً بهيّة للتجلّي.
अ॒पः । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । इन्दुः॑ । हि॒या॒नः । सो॒तृऽभिः॑ । ज॒नय॑न् । ज्योतिः॑ । म॒न्दनाः॑ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒ऽनिज॑म् ॥अपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृभिः । जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निःनिजम् ॥apaḥ | vasānaḥ | pari | kośam | arṣati | induḥ | hiyānaḥ | sotṛ-bhiḥ | janayan | jyotiḥ | mandanāḥ | avīvaśat | gāḥ | kṛṇvānaḥ | na | niḥ-nijam